वांछित मन्त्र चुनें

मि॒त्रं कृ॑णुध्वं॒ खलु॑ मृ॒ळता॑ नो॒ मा नो॑ घो॒रेण॑ चरता॒भि धृ॒ष्णु । नि वो॒ नु म॒न्युर्वि॑शता॒मरा॑तिर॒न्यो ब॑भ्रू॒णां प्रसि॑तौ॒ न्व॑स्तु ॥

अंग्रेज़ी लिप्यंतरण

mitraṁ kṛṇudhvaṁ khalu mṛḻatā no mā no ghoreṇa caratābhi dhṛṣṇu | ni vo nu manyur viśatām arātir anyo babhrūṇām prasitau nv astu ||

पद पाठ

मि॒त्रम् । कृ॒णु॒ध्व॒म् । खलु॑ । मृ॒ळत॑ । नः॒ । मा । नः॒ । घो॒रेण॑ । च॒र॒त॒ । अ॒भि । धृ॒ष्णु । नि । वः॒ । नु । म॒न्युः । वि॒श॒ता॒म् । अरा॑तिः । अ॒न्यः । ब॒भ्रू॒णाम् । प्रऽसि॑तौ । नु । अ॒स्तु॒ ॥ १०.३४.१४

ऋग्वेद » मण्डल:10» सूक्त:34» मन्त्र:14 | अष्टक:7» अध्याय:8» वर्ग:5» मन्त्र:4 | मण्डल:10» अनुवाक:3» मन्त्र:14


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (मित्रं कृणुध्वं खलु) हे पुराने साथी जुआरियों ! तुम लोग मुझे मित्र बनाओ-द्यूतकार्य से मैं विरक्त हो गया, ऐसा जानकर मुझसे द्वेष न करो और मेरे ऊपर कृपा बनाये रखो (नः-मृळतः) हमें सुखी करो (नः-घोरेण धृष्णु मा चरत) हमारे प्रति भयंकर दबाव से न वर्त्तो (वः-मन्युः-नु विशताम्) तुम्हारा क्रोध तुम्हारे अन्दर ही विलीन रहे (अन्यः-अरातिः-बभ्रूणां प्रसितौ नु-अस्तु) अन्य कोई वञ्चक-चौर चमकते हुए पाशो के बन्धन में बद्ध होवे ॥१४॥
भावार्थभाषाः - जुआ खेलनेवाला जुए खेलने के दोषदर्शन से विरक्त हो जाता है, तो उसके पुराने साथी द्वेष करने लगते हैं। वह उन्हें समझावे कि वे मित्रभाव करने लगें और कोई भी जुए के बन्धन में न फँसे ॥१४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (मित्रं कृणुध्वं खलु) हे कितवाः ! यूयं खलु मां मित्रं कुरुत द्यूतकार्यतोऽहं विरक्त इति लक्ष्यीकृत्य मां प्रति द्वेषं न कुरुतापि मयि मैत्रीं भावयत ममोपरि कृपां विधत्त (नः मृळत) अस्मान् सुखयत (नः घोरेण धृष्णु मा चरत) अस्मान् भयङ्करेण “धृष्णुना” तृतीयाविभक्तेर्लुक् धर्षणबलेन न वर्त्तध्वम् (वः-मन्युः-नु विशताम्) युष्माकं क्रोधो युष्माकमन्तरे हि निविष्टस्तिष्ठतु (अन्यः-अरातिः-बभ्रूणां प्रसितौ नु अस्तु) अन्योऽदाता वञ्चकश्चौरो बभ्रुवर्णानामक्षाणां द्यूतसाधनानां बन्धने जाले “प्रसितिः प्रसयनात् तन्तुर्वा जालं वा” [ निरु०६।१२] बद्धो भवतु ॥१४॥